Navgrah Stotra ( नवग्रहस्तोत्र )

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ।।

दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम् ।।

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् । Navgrah Stotra

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।।

देवानां च ऋषिणां च गुरुं काञ्चनसन्निभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ।।

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्त्तण्डसम्भूतं तं नमामि शनैश्चरम् ।।

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ।।

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ।।

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ।।

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ।।

गृहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ।।

इति श्रीव्यासविरचितं नवग्रहस्तोत्रं संपूर्णम् ।

Shri Saraswati Stotra (श्री सरस्वती स्तोत्र)

REF

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top