Shri Saraswati Stotra (श्री सरस्वती स्तोत्र)

याज्ञवल्क्य उवाच—

कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।

गुरुशपात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥१॥

ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् ।

ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥२॥

प्रतिभां सत्सभायां च विचार क्षमतां शुभाम् ।

लुप्तं सर्वं दैवयोगान्नवीभूतं पुनःकुरु ॥३॥

यथांकुरुं भस्मानि च करोति देवता पुनः ।

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी ॥४॥

सर्वविद्याधिदेवी या तस्यै वाण्यै नमोनमः ।

विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥५॥

तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः । Shri Saraswati Stotra

व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥६॥Shri Saraswati Stotra

यया विना प्रसंख्यावान् संख्यां कर्तुं न शक्यते ।

कालसंख्यारूपा या तस्यै देव्यै नमोनमः ॥७॥Shri Saraswati Stotra

भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमोनमः ।

स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥८॥

प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः ।

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥९॥

बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः ।

तदा जगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥१०॥

उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते ।

स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥११॥

चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।

यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥१२॥

बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः ।

तदा तां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ॥१३॥

ततश्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् ।

व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥१४॥

मौनीमूतश्च सस्मार तामेव जगदंबिकाम् ।

तदा चकार सिद्धान्तं तद्धरेण मुनीश्वरः ॥१५॥

संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीकम् ।

पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥१६॥

तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।

तदा त्वत्तो वरं प्राप्य सत्कवींद्रो बभूव ह ॥१७॥

तदा वेदविभागं च पुराणं च चकार सः ।

यदा महेंद्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥१८॥

क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।

पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥१९॥

दिव्यं वर्षसहस्त्रं च सा त्वां दध्यौ च पुष्करे ।

तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्त्रकम् ॥२०॥

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।

अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥२१॥

ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् ।

त्वं संस्तुता पूजिता च मुनींद्रैर्मुनिमानवैः ॥२२॥

दैत्येंद्रैश्चसुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।

जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥२३॥

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकंधरः ॥२४॥

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।

ज्योतीरुपा महामाया तेन द्ष्टाप्युवाच तम् ॥२५॥

सुकवींद्रो भवेत्युक्त्वा वैकुंठं च जगाम हे ।

याज्ञवल्क्यकृतं वाणीस्तोत्रमतेत्तु यः पठेत् ॥२६॥

महामूर्खश्च दुर्बुध्दिर्वर्षमेकं यदा पठेत् ।

स पंडितश्च मेधावी सुकवींद्रो भवेद्ध्रुवम् ॥२७॥

स्तोत्र

REF

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top